|
|
 |
 |
|
|
१६आश्रमवासिकपर्व.jpg)
॥ श्रीः ॥
16.40. अध्यायः 040
अथ नारदागमनपर्व ॥ 3 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
युधिष्ठिरेण धृतराष्ट्रादिनिधनश्रवणेन भ्रातृभिः सह सकरुणं परिदेवनपूर्वकं सतिसंस्कृताग्नौ तेषां वृथाग्निना दाहं प्रत्यनुशोचनम्॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Text
युधिष्ठिर उवाच।
तथा महात्मनस्तस्य तपस्युग्रे च तस्थुषः।
अनाथस्येव निधनं तिष्ठत्स्वस्मासु बन्धुषु॥ 16-40-1(98268)
दुर्विज्ञेया गतिर्ब्रह्मन्पुरुषाणां मतिर्मम।
यत्र वैचित्रवीर्योसौ दग्ध एवं वनाग्निना॥ 16-40-2(98269)
यस्य पुत्रशतं श्रीमदभवद्बाहुशालिनः।
नागायुतबलो राजा स दग्धो हि दवाग्निना॥ 16-40-3(98270)
यं पुरा पर्यवीजन्त तालवृन्तैर्वरस्त्रियः।
तं गृध्राः पर्यवीजन्त दावाग्निपरिकालितम्॥ 16-40-4(98271)
सूतमागधसङ्घैश्च शयानो यः प्रबोध्यते।
धरण्यां स नृपः शेते विकृष्टो गृध्रवायसैः॥ 16-40-5(98272)
न च शोचामि गान्धारीं हतपुत्रां यशस्विनीम्।
पतिलोकमनुप्राप्तां तथा भर्तृव्रते स्थिताम्॥ 16-40-6(98273)
पृथामेव च शोचामि या पुत्रैश्वर्यमृद्धिमत्।
उत्सृज्य् सुमहद्दीप्तं वनवासमरोचयत्॥ 16-40-7(98274)
धिग्राज्यमिदमस्माकं धिग्बलं धिक्पराक्रमम्।
क्षत्रधर्मं च धिग्यस्मान्मृता जीवामहे वयम्॥ 16-40-8(98275)
सुसूक्ष्मा किल लोकस्य गतिर्द्विजवरोत्तम।
यत्समुत्सृज्य राज्यं सा वनवासमरोचयत्॥ 16-40-9(98276)
युधिष्ठिरस्य जननी भीमस्य विजयस्य च।
अनाथवत्कथं दग्धा इति मुह्यामि चिन्तयन्॥ 16-40-10(98277)
वृथा संतर्पितो वह्निः खाण्डवे सव्यसाचिना।
उपकारमजानन्स कृतघ्न इति मे मतिः॥ 16-40-11(98278)
यत्रादहत्स भगवान्मातरं सव्यसाचिनः।
कृत्वा यो ब्राह्मणच्छद्म भिक्षार्थी समुपागतः॥ 16-40-12(98279)
धिगग्निं धिक् च पार्थस्य विश्रुतां सत्यसन्धताम्।
इदं कष्टतरं चान्यद्भगवन्प्रतिभाति मे॥ 16-40-13(98280)
वृथाऽग्निना समायोगो यदभूत्पृथिवीपतेः।
तथा तपस्विनस्तस्य राजर्षेः कौरवस्य ह॥ 16-40-14(98281)
कथमेवंविधो मृत्युः प्रशास्य पृथिवीमिमाम्॥ 16-40-15(98282)
तिष्ठत्सु मन्त्रपूतेषु तस्याग्निषु महावने।
वृथाऽग्निना समायुक्तो निष्ठां प्राप्तः पिता मम॥ 16-40-16(98283)
मन्ये पृथा वेपमाना कृशा धमनिसंतता।
हा तात धर्मराजेति मामाक्रन्दन्महाभये॥ 16-40-17(98284)
भीम पर्याप्नुहि भयादिति चैवाभिवाशती।
समन्ततः परिक्षिप्ता माताऽभून्मे दवाग्निना॥ 16-40-18(98285)
सहदेवः प्रियस्तस्याः पुत्रेभ्योधिक एव तु।
न चैनां मोक्षयामास वीरो माद्रवतीसुतः॥ 16-40-19(98286)
तच्छ्रुत्वा रुरुदुः सर्वे समालिङ्ग्य परस्परम्।
पाण्डवाःक पञ्च दुःखार्ता भूतानीव युगक्षये॥ 16-40-20(98287)
तेषां तु पुरुषेन्द्राणां रुदतां रुदितस्वनः।
प्रासादाभोगसंरुद्धे अन्वरौत्सीत्स रोदसी॥ ॥ 16-40-21(98288)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि नारदागमनपर्वणि चत्वारिंशोऽध्यायः॥ 40 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|